Wednesday, December 22, 2010

पञ्चाग्निविद्या

इह खलु रागद्वेषविदूषिते अनाद्यविद्या प्रकल्पिते प्रपञ्चे आहारनिद्याभयमैथुनादिपशुधर्मसाम्येऽपि ज्ञानवत्वात् मनुष्यः सर्वप्राणिश्रेष्ठ इत्युच्यते। तेनैव ज्ञानचक्षुषा सदसद्विवेकं प्राप्‍त्वा सः जन्मसंसारबन्धाद्विमुच्यते। परन्तु मायावशवर्त्तीजीवः आत्मज्ञानरहितस्सन् आत्मानं कर्त्तभोक्‍तृत्वेन मन्यमानो कर्मचक्र प्रविश्य नानायोनिषु वभ्रम्यमाण आत्मानं सुखीति दुःखीति वा मनुते। तदज्ञाननिवृत्त्यर्थं वेदोपनिषदादिशास्‍त्राणि प्रवृत्तिनिवृतिपरकाणि विधिनिषे
धादीनि वचांसि परिकल्पयन्ति। तेषु पञ्चाग्निविद्या चतुरश्रमेषु गृहस्थाश्रमगतानां गृहस्थानां विमुक्‍त्यर्थं छान्दोग्योपनिषदि पञ्चमाध्याय
स्य तृतीयखण्डात् दशमखण्डं यावत् परिकल्पिता अस्ति। तत्र गतित्रयं
समुल्लिख्य कूटस्थस्यात्मनः सर्वगतिरहितत्वं प्रतिपादयितुं प्रवृत्तिमार्गादाकृष्य निवृत्तिपरायणं कर्त्तुं निष्कामकर्मणि रतस्य
जीवस्य आदित्यरूपता परिक
ल्प्य अर्चिरादिमार्गेण ब्रह्मलोकप्रापणमेव अस्याः विद्यायाः सुरुचिरं लक्ष्यम्। अत्र गतित्रयं यथा -
(१) इष्टापूर्तिदत्तादिसकामकर्मिणां गृमेधीनां जीवानां धूमादिमार्गेण पितृयानेन दक्षिणायने चन्द्रमसादि परलोकगमनं दक्षिणायनगतिरित्येच्य्ते।
(२) एतल्लोकगतानां जीवानां कर्मफलभोगानन्तरं पूण्ये जाते पुनः मर्त्त्यलोकं प्रति पुनरावर्तनं श्रूयते। क्षीणे पुण्ये मर्त्त्यलोकं विशन्ति। अन्यथा ब्रह्मलोकं क्रमशः प्राप्य ब्रह्मसायुज्यं प्राप्नुवन्ति। इयं गतिः उत्तरायणगतिरित्युच्यते।
(३) तृतीयगतिस्तु संसारगतिः। ये तु गृहस्थाः आहारनिद्राभयमैथुनादिषु रताः वेदविहितप्रवृतिनिवृत्तिमार्गानुसारिणः पशुवज्जीवनं यापयन्ति ते नाना जीवयोनिरूपं घनान्धकारं प्रविशन्ति। तेषां जन्ममरणचक्रेषु भ्रमणमेव सारं भवति।एतेषां त्रायाणां गतीनामाख्यायिकामाध्यमेन रूपकमाध्यमेन च पञ्चाग्निविद्यायारुपस्थापनं क्रि
यते। ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयोः वक्‍तव्याः वैराग्यहेतोर्मुमुक्षूणामित्यत आख्यायिकाऽऽरभ्येते इति। आख्यायिकायाः सारोऽयं यत् एकदा श्‍वेतकेतुः नाम कश्‍चन ब्राह्मणबालकः पञ्चालदेशस्य राजाप्रवाहणस्य समीपे गतवान्। प्रवाहणः तत्र तं जीवनगतिसम्बन्धितान् पञ्चप्रश्‍नान् पृष्टवान्। पञ्चप्रश्‍नाः यथा -
"वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति,
वेत्थ यथा पुनरावर्तन्त इति न भगव इति,
वेत्थ पथोर्देवयानस्य पितृयानस्य च
व्यावर्तना इति न भगव इति॥
वेत्थ यथाऽसौ लोको न सम्पूर्यते न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति॥"
(छान्दोग्योपनिषद्, ५/३/२-३)
अर्थात् -
१. अस्माल्लोकादूर्ध्वं प्रजाः कुत्र गच्छन्ति?
२. गताप्रजाः केनोपायेन पुनः लोकमिममागच्छन्ति?
३. पितृयानदेवयानयोः पथोः व्यावर्तना कुत्र भवति?
४. पितृलोकः कथं न सम्पूर्यते?
५. कैः पञ्चसंख्यकैराहुतिभिरापः पुरुषसंज्ञको भवति?

प्रसंगवशेनेतेषामुत्तरं प्रवाहनेनैव प्रदत्तमस्ति। तत्र पथमतया पञ्चमप्रश्‍नस्य समाधानं
कृतं वर्तते। यतः अस्य प्रश्‍नस्य समाधानादनन्तरं सर्वेषांमुप्रयुक्‍तानां समाधानं सरलतया भवितुमर्हति। पञ्चमप्रश्‍नस्य समाधानमेव पञ्चाग्निविद्यायारुपस्थापनम्। एषा पञ्चाग्निविद्या पूर्वकाले ब्राह्मणानां समीपे नासीत्।

१. द्युलोकरुपाग्निविद्या -

असौ वाव लोको गौतमाग्नि
स्तस्याऽऽदित्य एव समिद्रश्मयो धूमोऽहरर्चिश्‍चन्द्रमा
अङ्गारा नक्षत्राणि विस्फुलिङ्गाः॥
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति

अर्थात् प्रसिद्ध

द्युलोकः अग्निर्भवति। तस्मिन्नग्नौ आदित्यः समिधा अस्ति। आदित्यस्य रश्मयः धूमाः भवन्ति। दिवसः ज्वाला इत्युच्यते। चन्द्रमा अङ्गारः कथ्यते। नक्षत्राणि विस्फुलिङ्गाश्‍च सन्ति। तस्मिन्नेवग्नौ देवाः श्रद्धारूपमापः जुह्वति। तस्याः आहुतेः सोमोराजा उत्पद्यते।


२. पर्जन्यरूपाग्निविद्या


पर्जन्यो वाव गौतमाग्निस्तस्य वायु

रेव समिदभ्रं धूमो दिद्युदर्चिरशनिरङ्गारा ह्रादनयो विस्फुलिङ्गाः॥तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर्वर्षं सम्भवति॥

अर्थात् द्वितीयोऽस्ग्निरस्ति पर्जन्यः। पर्जन्यो नाम वृष्ट्युपकरणाभिमानो देवताविशेषः। अस्याग्नेः वायुः समिधा अस्ति। वायुना एव पर्जन्याग्निः प्रज्वलितो भवति। अभ्रं (मेघखण्डं) धूमः। विद्युज्जावाला इति कथ्यते। अशनिः (वज्रः) अङ्गाराः भव

न्ति। गर्जनं विस्फुलिङ्गाः भवन्ति। अस्मिन् पर्जन्यरूपेऽग्नौ यदा देवाः सोमं राजानं जुह्वति ददा तस्मात् वृष्टिः सम्भवति।


३. पृथिवीरूपाग्निविद्या

पृथिवी वाव गौतमग्निस्तस्याः संवत्सर एव समिदाकाशोधूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः॥

तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति त्स्या आहुतेरन्नं सम्भवति

अर्थात् तृतीयोऽग्निर्भवति पृथिवी। अस्याः समिधा संवत्सरः। आकाशः धूमः। तमोरूपा रात्री ज्वाला। दिशः अङ्गाराः। अवान्तरदिशश्‍च विस्फुलिङ्गाः। अस्मिन्नग्नौ देवाः वर्षं जुह्वति। तदा तस्मात् अन्नं सम्भवति।

४. पुरुषरूपाग्निविद्या

पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चिश्‍चक्षुरङ्गाराः श्रोतं विस्फुलिङ्गाः॥तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति॥

अर्थात् पुरुषाग्नेः वाणी समिधा अस्ति। प्राणः धूमः कथ्यते। रक्‍तवर्णकारणात् जिह्वा ज्वाला इति कथ्यते। प्रकाशस्याश्रयकारणात् नेत्रद्वयम् अङ्गाराः। श्रोत्रं च पुरुषरूपेऽग्नौ देवाः अन्नं जुह्वति। तस्माच्च वीर्यः समुत्पद्यते।


५. स्‍त्रीरूपाग्निविद्या

योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो योनिर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गा॥
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति॥

अर्थात् स्‍त्रीरूपाग्नेः पुत्रोत्पादनार्थं प्रदीप्‍तकारनात् उपस्थः समिधा, पुरुषस्योपमन्त्रणा धूमः, रक्तवर्णकारणात् योनिः ज्वाला इत्युच्यत्, यदन्तः प्रवेशः सोऽङ्गाराः, तस्मान्निष्पन्नं क्षुद्रसुखं विस्फुलिङ्गः भवति। तस्मिन् स्त्रीरूपाग्नौ देवगणाः वीर्यं जुह्वति। तदा अस्मात् आहुतेः गर्भः सम्भवति।

एवं प्रकारेण सः पञ्चम्यामाहुतः आपः पुरुषशब्दवाच्यो कुक्षौ शेते। तदनन्तरमुत्पद्यते। तत्पश्‍चाच्च सः पूर्णायुर्जिवति। मनआदनन्तरं पुनः स तमेव स्थानं गच्छति यस्मात्स आगतः। एवमस्याः पञ्चाग्निविद्यायाः वेत्ता गृहस्थी ऊर्ध्वं गच्छति तथा च पुण्यलोकं प्राप्नोति। तदुक्‍तम् –

अथ ह य एतानेवं पञ्चाग्निन्वेद न सह तैरप्याचरूपाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद॥ इति।

Tuesday, December 21, 2010

चुने हुये कुछ श्‍लोक...

वसुदेवसुतं देवं कंसचाणूरमर्दनम्।
देवकीपरमानन्दं कृष्णं वन्दे जगद्‍गुरुम्॥


न तस्य कार्यं करणं च विद्यते न तत्समश्‍चाभ्याधिकश्‍च दृश्यते।
परास्य शक्‍तिर्विविधैव श्रूयते स्वाभिविकी ज्ञानबलक्रिया च॥


असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात्।
श‍क्‍तस्य शक्यकारणात् कारनाभावाच्च सत्कार्यम्॥

श्‍लोकार्धेन प्रवक्ष्यामि यदुक्‍तं ग्रन्थकोटिभिः।
ब्रह्मसत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः॥

श्‍वोभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः।
अपि सर्वं जीवितमल्पमेव तवेव वाहास्तव नृत्यगीते॥


सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।
पार्थो वत्सः सुधीर्भोक्‍ता दुग्धं गीतामृतं महत्॥

गीता सुगीता कर्तव्या किमन्यैः शास्‍त्रविस्तरैः।
या सव्यं पद्मनाभस्य मुखपद्माद् विनिःसृता॥

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
योऽपाकरोत् तं प्रवरं मुनीनां पतंजलिं प्रांजलिरातनोऽस्मि॥

चरितं रघुनाथस्य शतकोटिप्रविस्तिरम्।
एकैकमक्षरं पुंसां महापातकनाशनम्॥

यस्माज्जातं जगत्सर्वं यस्मिन्नेव प्रलीयते।
येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः॥

मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः।
एष वन्धयासुतो याति शशश्रृङ्गधनुर्धरः॥