Thursday, August 25, 2011

वर्षा

जब मेघ गरजते हैं आकाश मे,
हृदय सपन्दित हो जाता है,
वर्षा की आशा में कर,
दुआएं मांगनें लगते है॥

बरसी होगी जब पहली बूंद,
करतल में मोती की तरह,
हृदय झंकृत हुआ तारों सा,
सुर की लहरिया बरसती है॥

नाच उठे धरनि के रोयें,
कोयल राग सुनाती है,
हलधर हल को कन्धे रखकर,
कर्मभूमि चल देता है॥

जीवन में परिवर्तन का चक्र,
यूं ही चलता जाता है,
जब जब आती है वर्षा,
नया रंग बिखराती है॥

(श्रुंगेरी, कर्णाटक) 25.08.2011

Wednesday, February 16, 2011

अनुबन्धचतुष्टयम् (वेदान्तसारानुसारम्)

यानि तत्त्वानि ग्रन्थाध्ययने अध्येतारम् अनुबन्ध्नन्ति, तानि अनुबन्धानि। यथा, केनायं ग्रन्थः पठितव्यः? अस्य ग्रन्थस्य विषयः कः? तेन विषयेण सह ग्रन्थस्य कः सम्बन्धः? अस्याध्ययनस्य प्रयोजनं किम्? आसां जिज्ञासानां शान्त्यनन्तरमेव अध्येता अध्ययनाय प्रवर्तते। एतदेव अनुबन्धम्। इत्थम अनुबन्धानि तु अधिकारि-विषय-सम्बन्ध-प्रयोजनानि चतुर्विधानि।
(१) अधिकारी- अधिकारी तु विधिवदधीत वेदवेदांगत्वेनापाततोऽधिगतवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा, साम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्‍चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया साधनचतुष्टयसम्पन्नः प्रमाता। अर्थात् एवं गुणगणविशिष्टः प्रमाता एव वेदान्तशास्त्राध्यनस्य अधिकारी भवति।
(२) विषयः - विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयं, तत्रैव वेदान्तानां तात्पर्यात्। व्यष्टिसमष्टिगताज्ञानविजृम्भितं किंचिज्ञत्व-सर्वज्ञत्वादि-विरुद्धधर्मान् परित्यज्य अवशिष्टं नित्यशुद्धबुद्धब्रह्मस्वरूपं शुद्धचैतन्यं तदेवास्य वेदान्तस्य विषयः।
(३) सम्बन्धः - अस्य ग्रन्थस्य प्रमेयं यत् शुद्धचैतन्यं तस्य प्रतिपादकोपनिषत्प्रमाणस्य च बोध्य-बोधकभावः सम्बन्धः।
(४) प्रयोजनम् - प्रयोजनं तु तद्‍गताज्ञाननिवृत्तिपूर्वकं स्वरूपानन्दावाप्तिः, ब्रह्मभाववान् मोक्षप्राप्तिर्वा।

Saturday, February 12, 2011

ब्रह्मजिज्ञासा

ब्रह्मजिज्ञासायाः प्रतिपादकं सुत्रम् "अथातो ब्रह्मजिज्ञासा" एवास्ति। अथ, अतः ब्रह्मजिज्ञासा चात्रा त्रीणि पदानि सन्ति।
’अथ’ शब्दस्तु "मंगलानन्तरारम्भप्रश्‍नकार्त्स्न्येष्वथोऽथ" इति अमरकोशस्य वचनानुसारं मंगलादिकेषु विविधेष्वर्थेषु प्रयुज्यते, तथाप्यत्र अथ-शब्दः आनन्तर्यार्थः परिगृह्यते, नाधिकरार्थः। तत्रापि स्वाध्यायानन्तर्यम् अथवा धर्मजिज्ञासानन्तर्यं नैव अपेक्षते, - "न धर्म जिज्ञासायाः प्रागप्यधीतवेदन्तस्य ब्रह्मजिज्ञासोपपत्तेः। अतः एवोच्यते - नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनषट्कसम्पत्तिः, मुमुक्षुत्रं च। तेषु हि सत्सु प्रागपि धर्मजिज्ञासायाः ऊर्ध्वं च शक्यते ब्रह्मजिज्ञासितुं ज्ञातुं च, न विपर्यये। तस्माद् अथ-शब्देन यथोक्तसाधनचतुष्टय्सम्पत्यानन्तर्यम् उपदिश्यते।
"अतः" शब्दस्तु हेत्वर्थः। यस्माद् वेद एवाग्निहोत्रादीनां श्रेयः साधनानाम् अनित्यफलतां दर्शयति -
तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्रचितो लोकः क्षीयते (छान्दोग्य.) । ब्रह्मविज्ञानमपि परं पुरुषार्थं दर्शयति - "ब्रह्मविदाप्नोति परम्" (तैत्तिरीयो.) इत्यादिः। तस्माद् यथोक्तसाधनसम्पत्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या।
"ब्रह्मजिज्ञासा" ब्रह्मणो जिज्ञासा। "ब्रह्मणः" इति कर्मणि षष्ठी, न शेषे, जिज्ञास्य-अपेक्षत्वात् जिज्ञासायाः, जिज्ञास्यान्तरानिर्देशाच्च। यथा राजासौ गच्छति, इत्युक्ते सपरिवारस्य राज्ञो गमनम् उक्तं भवति। तद्वत् श्रुत्यनुगमाच्च - "यतो वा इमानि भूतानि जायन्ते, तद्विजिज्ञासस्व, तद्ब्रह्म" (तैत्तिरीयो.)। इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयति। तस्माद् "ब्रह्मणः" इति कर्मणि षष्ठी।

Thursday, February 10, 2011

सांख्यदर्शनम्


सांख्यदर्शनम् वेदमूलकम् प्राचीनतमं चास्ति। वैदिकसाहित्ये सांख्यसम्मताः सिद्धान्ताः यत्र-तत्र समुपवर्णिताः सन्ति। "अजामेकां लोहितशुक्लकृष्णाम्" इति उपनिषद्वाक्यं सांख्यदर्शनस्य बीजभूतं तत्त्वमस्ति। सत्त्वादिगुणानां, महदादिकरणानां प्रकृतिपुरुषयोश्‍च वर्णनम् अनेकेषु स्थलेषु, उपनिषत्सु समुपलभ्यते। अर्थात् वेदसम्मतं सांख्यदर्शनं पुराणेतिहासादिषु भूयो भूयः प्रशंसितमस्ति। सांख्यदर्शनस्य सृष्टिप्रक्रिया सर्वेषु पुराणेषु, प्रायः स्वीकृतमेवस्ति। श्रीमद्‍भागवद्‍गीतायां सांख्यदर्शनम् बीजरूपेण अवलोक्यते जनसामान्यैः। किंबहूना सांख्यदर्शनस्य गुणत्रयवादस्तु वैदिकवाङ्‍मये लौकिकवाङ्‍मये च सर्वत्र सुप्रसिद्धमेवास्ति। अत एव समग्रेषु भारतीयदर्शनेषु अत्यन्तं गौरवास्पदं स्थानं लभते सांख्यदर्शनम्।