Wednesday, February 16, 2011

अनुबन्धचतुष्टयम् (वेदान्तसारानुसारम्)

यानि तत्त्वानि ग्रन्थाध्ययने अध्येतारम् अनुबन्ध्नन्ति, तानि अनुबन्धानि। यथा, केनायं ग्रन्थः पठितव्यः? अस्य ग्रन्थस्य विषयः कः? तेन विषयेण सह ग्रन्थस्य कः सम्बन्धः? अस्याध्ययनस्य प्रयोजनं किम्? आसां जिज्ञासानां शान्त्यनन्तरमेव अध्येता अध्ययनाय प्रवर्तते। एतदेव अनुबन्धम्। इत्थम अनुबन्धानि तु अधिकारि-विषय-सम्बन्ध-प्रयोजनानि चतुर्विधानि।
(१) अधिकारी- अधिकारी तु विधिवदधीत वेदवेदांगत्वेनापाततोऽधिगतवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा, साम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्‍चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया साधनचतुष्टयसम्पन्नः प्रमाता। अर्थात् एवं गुणगणविशिष्टः प्रमाता एव वेदान्तशास्त्राध्यनस्य अधिकारी भवति।
(२) विषयः - विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयं, तत्रैव वेदान्तानां तात्पर्यात्। व्यष्टिसमष्टिगताज्ञानविजृम्भितं किंचिज्ञत्व-सर्वज्ञत्वादि-विरुद्धधर्मान् परित्यज्य अवशिष्टं नित्यशुद्धबुद्धब्रह्मस्वरूपं शुद्धचैतन्यं तदेवास्य वेदान्तस्य विषयः।
(३) सम्बन्धः - अस्य ग्रन्थस्य प्रमेयं यत् शुद्धचैतन्यं तस्य प्रतिपादकोपनिषत्प्रमाणस्य च बोध्य-बोधकभावः सम्बन्धः।
(४) प्रयोजनम् - प्रयोजनं तु तद्‍गताज्ञाननिवृत्तिपूर्वकं स्वरूपानन्दावाप्तिः, ब्रह्मभाववान् मोक्षप्राप्तिर्वा।

No comments:

Post a Comment