Sunday, May 26, 2013

आत्मानात्मनोरध्यासप्रतिपादनम्


साधनचतुष्टयसम्पन्नेन अधिकारिणा ब्रह्मविचाररूपा, आत्मविचाररूपा वा जिज्ञासा कर्त्तव्या इति भगवता बादरायणेन “अथातो ब्रह्मजिज्ञासा” इति सूत्रे प्रतिपादितम्। ब्रह्मजिज्ञासा च ब्रह्मविषये आत्मविषये वा सन्देहे सत्येव भवति। आत्मविषयकः सन्देहश्च आत्मानात्मनोः भेदाग्रहे सति भवति। तयोः भेदाग्रहश्च आत्मनि अनात्मबुद्धिवशात् अनात्मनि च आत्मबुद्धिवशाद् भवति। इयं हि अतस्मिन् तद्बुद्धिः अध्यासः इत्युच्यते। अतः इदमस्मत्प्रत्यययोः आत्मानात्मनोः अध्यासे उपपन्ने एव ब्रह्मणः सन्दिग्धत्वोपपत्तिः तस्य सन्दिग्धत्वे च जिज्ञासावसरः इति ब्रह्मजिज्ञासाप्रतिपादनार्थम् आत्मानात्मनोः अध्यासः सम्भवति न वेति विचारणीयम्। तत्र “अन्योन्यस्मिन् अन्योन्यात्मकताम् अन्योन्यधर्मांचाध्यस्य इत्यादिभाष्येण आक्षेपसमाधानाभ्याम् अध्यासं निरूपयन्तो लोकव्यवहारमाश्रित्य अन्योन्याध्यासं प्रादर्शयन्। तथापि तत्राह पूर्वपक्षी – इदमस्मत्प्रत्ययोः आत्मानात्मनोः तादात्म्याध्यासो न सम्भवति इति। कुतः? चित्स्वभावस्य आत्मनः विषयिणः जडस्वाभावानां  देहेन्द्रियबुद्धीनां विषयाणां च तमःप्रकाशवद् भवितुमर्हति येन अध्यासः प्रतिपद्येत। ननु तमःप्रकाशयोः अत्यन्तविरुद्धत्वेऽपि उलूकादेः प्रकाशे तमस्त्वारोपः अस्तीति चेत्। न, उलूकादेः अविवेकात् आरोपः। नहि जातु कश्चित् विविक्तेन ज्ञायमाने प्रकाशतमसी परस्परात्मतया प्रतिपत्तुमर्हतीति तादात्म्याध्यासानुपपत्तिः। अनुमानं चेत्थम् – युष्मदस्मत्प्रत्ययगोचरत्वेन विषयविषयित्वेन च आत्मानात्मानौ नेतरेतरतादात्म्यप्रतीत्यापन्नौ इतरेतरानात्मत्वेन प्रतिभासमानत्वात्, तमःप्रकाशवत् इति।
ननु धर्मिणोः आत्मानात्मनोः अत्यन्तविरुद्धस्वभावयोः परस्परात्मभावराहित्ये अपि तद्धर्माणां जाड्यचैतन्यनित्यत्वानित्यत्वादीनाम् इतरेतराध्यासो भविष्यति इति चेत्। न, धर्मिणोः विवेकाग्रहे सति तद्धर्माणामपि विवेकग्रहसद्भावात्। ननु यद्यपि कुसुमस्फटिकमण्योः धर्मिणोर्भेदो गृह्यते तथापि स्फटिकमणौ जपाकुसुमे प्रतिबिम्बिते सति अरुणः स्फटिकः इत्यारुण्यविभ्रमो भवति तद्वत् इहापि धर्मिणो विवेकग्रहे अपि तद्धर्माणाम् इतरेतरभावः अस्तु इति चेत्। न, स्फटिकमणौ अयमारुण्यारोपः बिम्बप्रतिबिम्बभावेनैव भवति, आत्मानात्मनोस्तु न तत् सम्भवति। रूपवत् अतिस्वच्छं च द्रव्यं रूपवतो द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि छायां गृह्णाति। न च अरूपस्य गगनस्य जले प्रतिबिम्बदर्शनात् व्यभिचारः इति वाच्यम्। गगनस्य स्वगतसवितृकरादिप्रतिबिम्बनद्वारा एव सलिले प्रतिबिम्बतत्वभ्रमः इति व्यभिचाराभावात्। चिदात्मा तु अरूपो विषयी इति, तस्य प्रतिबिम्बितत्वभ्रमकरस्य च कस्यचित् अभावात्, न विषयच्छायां ग्रहीतुं शक्‍नोति। यथाहुः—“शब्दगन्धरसानां च कीदृशी प्रतिबिम्बता” इति। वैपरीत्येन अस्वच्छविषयाः अपि अरूपस्य आत्मनः रूपं ग्रहीतुम् न शक्‍नुवन्ति।
धर्माध्यासो हि धर्मिणोः ऐक्यारोपेणप्रतिबिम्बभावेन बा भवितुमर्हति। इह प्रतिबिम्बभावे निरस्ते पारिशेष्यात् विषयविषयिणोः अन्योन्यात्मसम्भेदेनैव तद्धर्माणामपि परस्परभेदेन=विनिमयात्मना भवितव्यम्, तौ चेत् धर्मिणौ अत्यन्तविवेकेन गृह्यमानौ असम्भिनौ=विविक्तौ, तयोर्धर्माः अपि सुतराम् असम्भिन्नः=विविक्ताः स्युः। स्वाश्रययोः धर्मिणोः विविक्तत्वे तद्धर्माणामपि विविक्तत्वेन परस्परविनिमयस्य असम्भवात्। आत्मनात्मनोश्च अत्यन्तविवेकेन गृह्यमाणत्वात् न तद्धर्माणाम् इतरेतरभावः सम्भवति। न च आत्मानात्मनः विवेकाग्रह अस्तीति वाच्यम्, यतः अहमर्थः एव आत्मा, स चात्मा कीटपतङ्गादिप्राण्यन्तरेभ्यो देवेभ्यो विषयेभ्यः, किं बहुना देहेन्द्रियमनोबुद्धिभ्यः अपि विविक्तत्वेन अपरोक्षानुभूत्या असन्दिग्धत्वेन अविपर्यस्तत्वेन च ज्ञायते। न चायमात्मा सन्दिग्धः विपर्य्यस्तः वा। न हि जातु कश्चिदत्र सन्दिग्धे अहं वा नाहं वेति, न च विपर्य्यस्यति नाहमेवेति। अत्र अयम् आशयः—अध्यासो भेदाग्रहेण व्याप्तः तद्विरुद्धः भेदग्रहश्च इहास्ति। स भेदाग्रहं निवर्तयन् तद्‍व्याप्तम् अध्यासमपि निवर्तयतीति। अयमेव पूर्वपक्षः भगवता भाष्यकारेण –“युष्मदस्मत्प्रत्ययगोचरयोः विषयविषयिणोस्तमःप्रकाशवद् विरुद्धस्वभावयोः इतरेतरभावानुपपत्तौ सिद्धायां तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः इत्यतऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम्, इत्यनेन उपस्थापितम्।
अत्रोच्यते—मैवम्, अहमित्यनुभवे उपनिषत्सु गीयमानरूपेण यथार्थात्मतत्त्वस्य अप्रकाशमानत्वात्। तथाहि—समस्तोपाध्यनवच्छिन्नं विशुद्धचैतन्यरूपम् अनन्तम् आनन्दम् एकम् अद्वितीयम् उदासीन, अखण्डम् आत्मतत्त्वम् उपनिषत्सु गीयते। अहमनुभवस्तु प्रादेशिकम् अनेकविधशोकदुःखाद्युपप्लुतम् अशुद्धं तत्त्वम् उपस्थापयति इति नाहमनुभवे यथार्थः आत्मा प्रतिभासते। ननु अहम् इति तावत् सर्वजनीनस्फुटतरानुभवसिद्ध आत्मा इति तस्य उपपत्तये उपचरितार्थाः उपनिषदः इति चेत्। न, उपक्रमोपसंहारैः अभ्यासेन च उपनिषदः एतादृशम् आत्मतत्त्वं अभिदधति इति तत्रैव सर्वासामुपनिषदां तात्पर्यात् न ताः कथमपि उपचरितार्थाः कर्तुं शक्यन्ते।
ननु प्रत्यक्षं नाम ज्येष्ठप्रमाणम्, आम्‍नायश्च प्रत्यक्षापेक्षः इति प्रत्यक्षविरोधिनः आम्‍नायास्य प्रामाण्यस्वीकारे उपजीव्यविरोधप्रसङ्गात् आम्‍नायस्यैव अप्रामाण्यं स्यात्। तन्माभूदिति तस्य उपचरितार्थत्वं युक्तमिति चेत् – मैवम्, यतः सांव्यावहारिकं प्रत्यक्षज्ञानम् आगमेन उत्पत्तौ अपेक्ष्यते, न तत् सांव्यावहारिकं ज्ञानमागमेन विरुध्यते, अपि तु तात्त्विकमेव। तच्च प्रत्यक्षस्य तात्त्विकं ज्ञानं नागमेन अपेक्ष्यते, आगमस्य अपौरुषेयतया निरस्तसमस्तदोषाशङ्कात्वात्।
यच्च अहं प्रत्यये देहादिव्विक्तत्वेन यथार्थम् आत्मतत्त्वम् अवभासत इत्युक्तम्, तन्न, अहं स्थूलः, अहं कृशः इत्यादौ देहतादात्म्याध्यासेन ‍आत्मनः अवभासात्, “अहमिहैवास्मि सदने जानानः” इत्यादौ च सर्वव्यपिनः आत्मनः प्रादेशिकत्वेन ग्रहणात्। न चात्र आत्मवाची अहं शब्दः गौण्या वृत्त्या देहे उपचर्यते इति वाच्यम्। यतः गौण्यां वृत्तौ मुख्यार्थस्य गौणार्थस्य अपेक्षा अस्ति, न तु अहङ्कारस्य मुख्योऽर्थः आत्मा असन्दिग्धत्वेन देहदिभ्यः भिन्नत्वेन च अनुभूयते इति आत्मशब्दस्य शरीरादौ गौणत्वेन प्रयोगः न सम्भवति। गौणत्वं गौणमुख्यविवेकज्ञानेन व्याप्तम्। प्रकृते तु व्यापकम् आत्मानात्मनोः विवेकज्ञानं निवर्त्तमानम् अहं प्रत्ययस्य गौणतामपि निवर्तयति। न च बालस्थविरशरीरभेदे अपि “स एवाहम्” इति एकस्य अहं प्रत्ययस्य प्रतिसन्धानाद्, देहादिभ्यः भिन्नत्वेन आत्मा अनुभूयते इति वाच्यम्। परीक्षकाणां खल्वयं कथा, न लौकिकानाम्। तर्हि विवेकिनां देहादौ अहंशब्दः गौणः इति चेत्, न विवेकिनः अपि व्यवहारसमये लोकसामान्यमनुवर्तन्ते। तथा ह्याह भगवान्भाष्यकारः – “ पश्वादिभिश्चाविशेषात्” इति। एवं च अहं प्रत्ययस्य आत्मतत्त्वं निरस्तम् इति नाहमनुभवे विविक्तत्वेन आत्मा अवभासते।
तस्मात् यथार्थात्मतत्त्वम् अजानम् जनः धर्मिणोः तादात्म्याध्यासेनान्योन्यस्मिन् धर्मिणि आत्मशरीरादौ अन्योन्यात्मकताम् आत्मनि अनात्मदेहादिबुद्ध्या अनात्मदेहादौ च आत्मबुद्ध्या अहमिदं शरीरादि इति व्यवहरति। धर्माध्यासवशाच्च परस्परधर्माध्यासेन देहादिधर्मान् जन्ममरणजराव्याध्यादीन् अध्यस्तदेहादिभावे आत्मनि समारोप्य ममेदं जरामरणपुत्रपशुस्वाम्यादि इति व्यपदिशति, तत्र तत्र प्रवर्तते च। अयं च व्यवहारः पूर्वभाविमिथ्याभुताज्ञाननिमित्तः अध्यासनिमित्तः वा। स चाध्यासः अत्यन्तविविक्तयोरपि धर्मधर्मिणोः इतरेतराविवेकेन विवेकाग्रहेण वा भवति।
ननु शुक्तिरजतयोः विविक्तयोः वस्तुसतोः भेदाग्रहनिबन्धनः तादात्म्यविभ्रमः युज्यते, इह तु परमार्थसतः चिदात्मनः अत्यन्तभिन्नं न देहादिवस्तुसत् अस्ति, तत् चिदात्मनः भेदाग्रहः तादात्म्यविभ्रमश्च न युज्यते इति चेत् उच्यते – सत्यः यः चितात्मा, अनृतं यद् देहादि ते द्वे धर्मिणी, मिथुनीक्रियते=विवेकाग्रहादध्यस्येते इति, न हि संवृतिपरमार्थसतोः पारमार्थिकं मिथुनमस्ति। अप्रतीतस्य आरोपायोगाद् आरोप्यस्य प्रतीतिः एव उपयुज्यते, न वस्तुसत्ता इत्यर्थः। ननु आरोप्यस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः, समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमिति, अनादित्वात् वा पूर्वपूर्वमिथ्याज्ञानापदर्शितस्य बुद्धीन्द्रियशरीरादेः उत्तरोत्तराध्यासे उपयोगः इति न परस्पराश्रयत्वम्।
ननु कथं पुनः प्रत्यागात्मनि अविषये विषयतद्धर्माणामध्यासः। यत् पराधीनप्रकाशम् अंशवच्च तत् सामान्यांशग्रहे कारणदोषवशात् विशेषांशाग्रहे च अन्यथा प्रकाशते। प्रत्यगात्मा तु स्वप्रकाशतया न स्वज्ञाने कारणानि अपेक्षते, येन तदाश्रयैः दोषैः दुष्येत। न चांशवान् सः, येन कश्चिद् अंशो गृह्येत, कश्चिन्न गृह्येत। आत्मनः सदातने अप्रकाशे अपि पुरोऽवस्थितत्वस्य अपरोक्षत्वस्य अभावात् नाध्यासः। तस्मात् चिदात्मनः अत्यन्तग्रहे अत्यन्ताग्रहे च नाध्यासः। अपि च सर्वः हि पुरोऽवस्थिते विषये विषयान्तरम् अध्यस्यति। न हि कश्चित् शुक्तौ अपुरः स्थितायाम् “इदं रजतम्” इति रजतमध्यस्यति। आत्मा तु अविषयः इति तत्राध्यासो न सम्भवति। ननु अविषयत्वे हि चिदात्मनः नाध्यासः, विषयः एव तु चिदात्मा अस्मत्प्रत्ययस्य, तत् कथं नाध्यासः इति चेत्। न, चिदात्मनः विषयत्वे अन्यो विषयी भवेत्। तथा च यः एव विषयी, स एव चिदात्मा इति आत्मा न कदापि विषयो भवति। विषयस्तु ततोऽन्यः इदं प्रत्ययगोचरः, युष्मत्प्रत्ययगोचरः वा अभ्युपेयः तस्मात् विषयत्वे अनात्मत्वप्रसङ्गात्, अनवस्थाप्रसङ्गात् च आत्मनः युष्मत्प्रत्ययापेतत्वम् इदं प्रत्ययापेतत्वम्, अत एव च अविषयत्व वक्तव्यम्। आत्मनः अविषयत्वे च कथम् अध्यासः। अत्रोच्यते—न तावदयं चिदात्मा एकान्तेन अविषयः, अस्मत्प्रत्ययविषयत्वात्। यद्यपि परमार्थतः प्रत्यगात्मा स्वयंप्रकासह्त्वाद् अविषयः अनंशश्च तथापि अनिर्वचनीयानाद्यविद्यावशात् बुद्ध्यादिभिः अवच्छिन्नः इवः, अभिन्नोऽपि भिन्नः एव। अकर्ता अपि कर्ता इव अविषयोऽपि अस्मत्प्रत्ययविषयः इव प्रतिभाति। आत्मनः अपरोक्षत्वं च अवश्यम् अभ्युपेतव्यं, तदप्रथायां सर्वस्य अप्रथनेन जगदान्धप्रसङगात्। श्रुतिः चास्ति –“तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” इति। चिदात्मनः परोक्षत्वाभ्युपगमे अपि न हानिः। न चायमस्ति नियमः पुरोऽवस्थिते विषये एव विषयान्तरम् अध्यसितव्यमिति। यतः अप्रत्यक्षेऽपि आकाशे अविवेकिनः इन्द्रनीलकटाहकल्पं नभः मलिनं पीतम् इत्येवम् अपरोक्षम् अध्यस्यन्ति। एवमविरुद्धः आत्मानात्मनोरध्यासः।

सन्दर्भग्रन्थाः –
1.   ब्रह्मसूत्रशाङ्करभाष्यम्।
2.   शाङ्करवेदान्ते तत्त्वमीमांसा।
3.   शाङ्करदर्शनमर्मप्रकाशः।

1 comment:

  1. संस्कृत आती जरुर पढ़ समझकर कोई टिप्पणी करते :(
    जब पढने का मौका था तब संस्कृत की उपयोगिता नहीं समझी, जब उपयोगिता समझ आई तब सीखने का मौका हाथ से चला गया :(
    Gyan Darpan

    ReplyDelete