Thursday, October 10, 2013

न्यायदर्शने साधनचतुष्टयविमर्शः

[My paper presented in "21st INTERNATIONAL CONGRESS OF VEDANTA" held at University of Massachusetts, Dartmouth USA on 11-13 July, 2013]


[तत्त्वसमीक्षार्थमेव खलु प्रवर्तन्ते सर्वाऽपि दर्शनसरण्यः, तथापि तासां सर्वासां चिन्तनविधिर्भिन्नः, किञ्च तत्त्वाधिगमोऽपि भिन्न एव प्रतीयते। काचिद्दर्शनसरणी ईश्वरमङगीकरोति, काचिन्नाङ्गीकरोति, काचिच्चौदासीन्यं भजते। ईश्वरसिद्धावपि समेषां दर्शनां उपपत्तयो भिन्नाः एव दृश्यन्ते, अतः सर्वेषु दर्शनेषु मिथो विरोधः प्रतीयते। एकैकमपि दर्शनम् अन्यद्दर्शनं खण्डयति इव भाति। वेदान्तमते सर्वाणि दर्शनानि निराकृतानि। किन्तु तत्त्वज्ञानस्य साधनविषये न्यायदर्शनस्य वेदान्तदर्शनेन सह महत् सख्यमस्ति। तत्र साधनचतुष्टये न्यायदर्शन-वेदान्तदर्शनयोः अतीव साम्यमस्ति, तत्साधनाय एव अस्मिन् शोधपत्त्रे अयं प्रयासः विहितोऽस्ति।]
    
दृशिर् धातोः प्रेक्षणार्थकात् “दृश्यत अनेनेति दर्शनमित्यर्थः”। दर्शनविषयजिज्ञासायां तत्त्वमिति वक्तव्यम् । ततश्‍च येन तत्त्वं दृश्यते तद्दर्शनमिति भवति। यदा तु दृश् धातोः ज्ञानार्थकत्वस्वीकारे दर्शनम् - दृष्टिरिति व्युत्पत्या ज्ञानमित्यर्थोऽपि भवति । ज्ञानैनेव हि सर्वं विचारयितुं शक्यते । तत्त्वज्ञानार्जने व्यापृताः शान्तचित्ताः जितेन्द्रियाः दिव्यचक्षुषः निखिलपदार्थजातं करतलामलकवत् प्रत्यक्षीकुर्वाणाः विवेकविचारशीलाः मानवसमुदायस्य श्रेयसे कल्याणकामनया च यानि तत्त्वानि यांश्‍च सिद्धान्तान् ज्ञानप्राप्तिसाधनभूतान् आविर्भावयामासुः तानि दर्शनानि इति व्यवह्रियन्ते । एवञ्‍च दर्शनमिति नाम्‍ना प्रसिद्धं शास्त्रम् तत्त्वज्ञानादेव प्रारब्धमिति। तच्‍च तत्त्वज्ञानं केनचित् साधनेन भवति, तस्य साधनविशेषस्य प्रदर्शनम्, तत्त्वज्ञानं च कीदृशं भवति - इत्युभयं तत्तद्दर्शनेन क्रियते। तथा कर्तव्ये सति कानिचन दर्शनानि तत्त्वज्ञानम् ईदृशम्, साधनानि च इमानि इति वदन्ति, इदञ्चान्यैः दर्शनैः नाङ्गीक्रियते। एकमुदाहरणेन पश्यामश्‍चेद्यथा साङ्ख्यदर्शनेन उच्यमानं तत्त्वज्ञानं प्रकृतिपुरुषविवेकविज्ञानम् अन्यैः दर्शनैः नाङ्गीक्रियते । एकैकस्यापि दर्शनस्य अन्येन दर्शनेन सह विरोधः प्रतिभाति। दर्शनेषु उत्तममिति सर्वैः अङ्गीक्रियमाणं वेदान्तदर्शनम् निराकरोति इव भाति इमानि दर्शनानि । यथा बादरायणः साङ्ख्यदर्शनं वैशेषिकदर्शनं च ब्रह्मसूत्रे निराचकार। अन्यानि च दर्शनानि तत्र “एतेन योगः प्रत्युक्तः”[1], “एतेन सर्वे व्याख्याता व्याख्याताः”[2] इत्यादिरीत्या बहुभिः प्रकारैः निराकृतानि ।[3] परन्तु सः बादरायणः एकं दर्शनं नैव निराचकार, तच्‍चास्ति न्यायदर्शनम् । बादरायणसूत्रेषु कुत्रचिदपि न्यायदर्शनस्य निराकरणं नैव लक्ष्यते, भगवत्पादैः तु विशिष्य “तथा चाचार्यप्रणीतं न्यायोपबृंहितं सूत्रम् – दुःखजन्मप्रवृत्तिमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः”[4] इति सूत्रम् उदाहृत्य इयं न्यायोपबृंहितम् सूत्रमिति स्पष्टरूपेण न्यायदर्शनस्य सूत्रमुदाहृतम्। अतः न्यायदर्शनेन सह वेदान्तदर्शनस्य विरोधो नास्ति इति ज्ञायते। तर्हि विरोधे असति दर्शनद्वयं कुतः इति चेत् तत्र भामतीकारवाचस्पतिमिश्रैः एवमुक्तम् – यद्यपि साधनविषये साम्यमस्ति तथापि तत्त्वज्ञानविषये अस्माकम् ईषद्विप्रतिपत्तिरस्ति इति । वेदान्तन्यादर्शनयोः साधनचतुष्टयविमर्शे कथं साम्यमस्ति इति विचाराय एव अयं प्रयासः।

वेदान्तदर्शने तत्त्वज्ञानं नाम – आत्मतत्त्वज्ञानम् । स च आत्मा देहदिविलक्षणः, तादृशं ज्ञानमेव आत्मतत्त्वज्ञानम् इत्युच्यते वेदान्तदर्शने । नयायदर्शने अपि आत्मा देहादिविलक्षणः इति ज्ञानायैव इदमात्मदर्शनमारब्धम् इति भगवान्भाष्यकारः वदति एव । यथा हि “दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिभिः”[5] इति सूत्रस्यावतरणिकायां भगवान्भाष्यकारो वदति – “आत्माशरीरेन्द्रियार्थबुद्धिमनः प्रवृतिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्”[6] इति द्वादशप्रमेयाः सन्ति । तेषु केचन ज्ञेयाः, केचन च हेयाः प्रमेयाः । ज्ञेयाः प्रमेयाः विशिष्य आत्मा शरीरञ्च। कथं ज्ञेयाः इति चेत् – आत्मा शरीरविलक्षणः, शरीरञ्‍च आत्मविलक्षणम् इति ज्ञेयम् । तस्मादिदं ज्ञेयं प्रमेयम् इति कथ्यते । अथ च दुःखं नाम यदस्ति तच्‍च हेयं प्रमेयमिति उच्यते । तर्हि अनयोः सम्बन्धे क्रियमाणे आत्मा शरीरविलक्षणः इति ज्ञायते तर्हि दुःखं परित्यक्तं भवति। तर्हि शरीरादिविलक्षणात्मज्ञानेन दुःखनिवृत्तिः इति भगवान्भाष्यकारः स्पष्टवेम ब्रूते । तदेव बादरायणोऽपि सूत्रयति, भगवत्पादाः अपि भाषन्ते, श्रुतिरपि आम्‍नाति।[7] यथा च देहव्यतिरिक्ते आत्मनि अज्ञाते प्रियाप्रिययोः अपहतिर्नास्ति इति श्रुतिः स्पष्टवेम वदति। तर्हि देहव्यतिरिक्तात्मज्ञानेन दुःखनिवृत्तिः इति यः श्रौतपक्षः स एव न्यायदर्शने अपि अनुदितः इति स्पष्टं विज्ञातुं शक्यते। इदं तत्त्वज्ञानं कथं भवति, तत्त्वज्ञाने अधिकारी कः इत्यत्र वेदान्तदर्शने विस्तरेण विवेचनमस्ति । तत्र च विधिवदधिकारि इत्यारभ्य साधनचतुष्टयसम्पन्नः प्रमाता आत्मज्ञाने अधिकारी इति निरूपितम्। साधनचतुष्टयम् – “नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमादिषटकसाधनसम्पत्तिः, मुमुक्षुत्वम्”[8] इति।

नित्यानित्यवस्तुविवेकः -
नित्यानित्यवस्तुविवेकः इति प्रथमः साधनविशेषः। अयं कीदृशः साधनविशेष इति जिज्ञासायामुच्यते - आत्मा नित्यः, अन्यत् सर्वमनित्यमिति विवेकः स्थूलरूपेण नित्यानित्यवस्तुविवेकः। अयं विवेकः वैराग्यं जनयति । कथं नित्यानित्यवस्तुविवेको वैराग्यं जनयिष्यति इति शङ्कायाम् उच्यते - यन्नित्यं तदेव सुखम्, यत्तु अनित्यं तद् दुःखस्वरूपम्। दुःखजनकत्वाद् दुःखस्वरूपत्वाद् वा उभयमपि दुःखमेव। अस्माकं सुखे एव इच्छा वर्तते, दुःखेषु इच्छा न वर्तते। तर्हि यत्सुखं तदेव अपेक्षितम्, यत् असुखं तत् न अपेक्षितम् इति। तर्हि नित्यानित्यवस्तुविवेकः अर्थात् सुखासुखविवेको इति आगतम् । सुखासुखविवेके च सम्पन्ने अयं पुरुषः असुखात् विरज्यते। तद् वैराग्यमेकं साधनं सम्पन्नम्। एवञ्च वैराग्येण सम्पन्नः अयं पुरुषः शमदमादिसाधनसम्पत्तिमान् भवति। तत्र शमः, दमः, तितिक्षा, उपरतिः, समाधानम्, श्रद्धा इति षट् साधनानि सन्ति, तानि अस्य नित्यानित्यविवेकसाधनसम्पन्नस्य भवति। सङ्क्षेपेण वदामश्‍चेत् इन्द्रियनिग्रहः एवं श्रद्धा च उत्पद्यते। तथा इन्द्रियनिग्रहादिसाधनजातं यदा उत्पन्नं भवति तदा अस्य मुमुक्षुत्वं सम्पद्यते। तथा मुमुक्षुत्वेन सम्पन्नः पुरुषः जिज्ञासायां सत्यां स्वयमेव विचारे प्रवृत्तः, विचारेण च आत्मानं सम्यक् ज्ञातुं प्रवर्तते इति गतिः।

अयं नित्यानित्यवस्तुविवेकरूपः प्रथमसाधनविशेषो न्यायदर्शने सम्भवति न वा इति विचारे प्रायः यथावदेव अयं साधनविशेषः अत्र अनुसृत इति लक्ष्यते। यद्यपि एकस्मिन् स्थले अनेन क्रमेण नोपात्तम्, तथापि भिन्नेषु स्थलेषु, प्रकरणेषु, सन्दर्भेषु इमानि एव साधनानि प्रधानतः उपलभ्यन्ते। सूत्रकारः पूर्वोक्तरीत्या “आत्माशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्” इति द्वादशविधं प्रमेयं सूत्रयामास। तत्र दुःखम् इति एकादशं प्रमेयं, तस्य च सूत्रम् - “बाधनालक्षणं दुःखम्[9]” इति। संक्षेपेण अस्यायमर्थः यद्यत् प्रतिकूलतया वेद्यते, यत् वेदनास्वरूपं तत् दुःखमिति। तर्हि प्रतिकूलतया वेदनीयं किं भवति? प्रतिकूलतया वेदनीयं तु दुःखं भवति, तच्‍चात्मनि अपि भवति, तथैव तज्जनकः विषयोऽपि प्रतिकूलतया वेदनीयो भवत्येव खलु इति शङ्कायां भगवान्भाष्यकारः आह - इष्टमेव तत्। यः इदं सर्वं मम प्रतिकूलं इति जानाति, दुःखमिति मत्या विषयानि यः पश्यति सः अवश्यं विरज्यते, अतः दुःखदोषः इति बुद्धिः न केवलम् कश्मिंचित् आत्मगुणे अपितु तज्जनके विषयेऽपि अपेक्षिता एव इति भगवान्भाष्यकारः भाषते। दुःखं दुःखजनकेषु विषयेषु दुःखमिति बुद्धिः अपेक्षिता, प्रायः नित्यानित्यवस्तुविवेकस्य सुखासुखविवेकपर्यवसितस्य इदं एकं रूपं यद्दुःखजनकम्, तत् सर्वं दुःखमेव। तर्हि दुःखाजनकं किम् इति चेत् - तत्त्वज्ञानम्। कथं इति शङ्कायां सूत्रकारो ब्रवीति - “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरापायादपवर्गः”[10] इति। दुःखं कथं भवति इति शङ्कायामुच्यते - जन्म भवति चेत् दुःखं भवति, यो यः जन्म लभते, सः सर्वोऽपि दुःखवान् इति। तज्जन्म अस्मिन् लोके स्यात्, तद्दुःखकरमेवास्ति। तत्र भामतीकाराः वदन्ति - सर्वेषु विषयेषु दुःखद्वयमस्ति - साधनायत्तत्त्वम्, अनित्यत्वं चेति। महता प्रयत्‍नेन साधनेन च सम्पाद्यं सर्वमपि, अथ च अनित्यम् इत्युभयमेव दुःखकरमेव वर्तते। अतः सर्वं वस्तु दुःखजनकत्वात् दुःखमेव भवति। तर्हि इदं जन्म अपि एवमेव। कुतः इति चेत् जन्ममिदं केनचित् कर्मणा जायते, तच्‍च कर्म शुभाशुभविलक्षणम्। तर्हि महता प्रयत्‍नेन कर्म कृत्वा प्राप्तमिदं जन्म न स्थिरम्। न अस्मिन् लोके, न वा स्वर्गादिलोके। अतः साधनायुततत्त्वम् अनित्यत्वमपि च अस्ति इति कृत्वा इदं दुःखकरं जन्म। अतः इदं दुःखमित्याचक्षते। तर्हि दुःखं जन्मना भवति, जन्म च कर्मणा भवति, कर्म च केन साधनेन भवति इति शङ्कायाम् - कर्म प्रवर्तकं प्रधानतः रागद्वेषमोहरूपं दोषाख्यं त्रयम् इति। कश्मिंचित् विषये रागः, कश्मिंचित् विषये द्वेषः, कश्मिंचित् विषये तु मोहः एव। तर्हि रागद्वेषमोहः अत्र प्रवर्तकः। तर्हि कर्मणः कारणं रागद्वेषादिः इति। रागद्वेषयोश्‍च हेतुर्मोहो मिथ्याज्ञानम्। सर्वस्याप्यनर्थस्य मूलं भवति मिथ्याज्ञानम्। कुतः इति चेत् तत्र भाष्यकारः आह - मिथ्याज्ञाने सत्येव अयं कश्मिंचित् विषये अनुरञ्जयते। कञ्चन विषयं द्वेष्टि। परन्तु मिथ्याज्ञानकृतमेव इदम् इति किञ्‍चिद्विवेचनीयम्। अत्र भाष्यकाराः वदन्ति - सर्वमपि रागो व द्वेषो वा अहङ्कारपूर्वकः। अहम् इच्छामि, अहं द्वेष्मि इत्येव सर्वेषां प्रत्यक्षम्। अयं यः रागः अहङ्कारपूर्वकः उक्तः, तत्र अहं अहम् इति शब्देन उच्यमानं देहः एव इति। तस्मादेव अहमिच्छामि, अहं करोमि इति सर्वं देहं प्रताड्य दर्शयति। तर्हि देहश्च कथं इच्छति, इच्छा तु आत्मगुणः इति चेत् उच्यते - तत्रैव मिथ्याज्ञानं प्रवर्तते, तत्र एव अयम् अहङ्कारः। अहङ्कारो नाम देहादौ आत्मभ्रमः इति। तर्हि देहादौ आत्मभ्रमे सति आत्मनि या इच्छा भवति, सा इच्छा देहे आरोप्यते, अन्योन्याध्यासोक्तरीत्या अथवा अन्येन प्रकारेण। अथ च देहस्य यदनुकूलम्, तद् आत्मना अपि अनुकूलं भाति, अनुकूलमिति कृत्वा सः तत्र व्रज्यते। यदि देहस्य प्रतिकूलं स्यात्तर्हि तत्र अभिमानकारणेन आत्मा प्रतिकूलविषयं द्वेष्टि इति क्रमः भवति, अतः मिथ्याज्ञानकृतौ एव रागद्वेषौ। तर्हि मिथ्याज्ञानमेव रागद्वेषयोः उत्पादकत्वेन तत्परम्परया जन्मोत्पादकत्वेन च दुःखजनकम् इति सम्पन्नम्। तथा सम्पन्ने सति इदं दुःखं परम्परया मिथ्याज्ञाननाशेनैव नश्यति अन्यथा तु अस्य नाशो नैव सम्भवति। यद्यपि दुःखं नाम आत्मगुणम्, तत् क्षणद्वयावस्थाय इति नव्यतार्किकाः निरूपयन्ति तथापि तादृशः दुःखध्वंसः नैव अस्माकम् अपेक्षितं येन दुःखध्वंसेन तदनन्तरमपि किञ्चिद् दुःखमवश्यं भविष्यति। दुःखध्वंसः तादृशः अपेक्षितः यतः परं किमपि दुःखं नोदेष्यति। सैव आत्यन्तिकीदुःखनिवृत्ति इति उच्यते, स एव अपवर्गः इति शब्देनापि उच्यते। यतः “बाधनालक्षणो दुःखम्” इति सूत्रं सूत्रयित्वा तदनन्तरं सूत्रकारः वदति - “तदत्यन्तविमोक्षः अपवर्गः[11]” इति। एवञ्च आत्यन्तिकीदुःखनिवृतिरेव मोक्षः इति सूत्रकारः ब्रवीति। तर्हि एतादृशी दुःखनिवृत्तिः केन स्यात् - तत्त्वज्ञानेनैव स्यात्, पूर्वोक्तरीत्या। तत्त्वज्ञानेन मिथ्याज्ञानमपगते, मिथ्याज्ञानरूपकारणाभावात् कर्म न भवति। कर्मणः अभावे जन्म न भवति, जन्मन अभावे दुःखं न भवति इत्ययं क्रमः। तर्हि तत्त्वज्ञानं अस्माकं दुःखनिवृत्तिसम्पादनेन अथवा सुखसम्पादनेन अपेक्षितं तदतिरिक्तं सर्वमपि दुःखजनकत्वात् दुःखमेव, इति यः सुखासुखविवेक अथवा सुखदुःखविवेकः अथवा नित्यानित्यवस्तुविवेकः इति वा भवतु, स अवश्यमेव सूत्रितो भवति, भाषितश्च भवति। एवं प्रथमं साधनम् अवश्यमिदमस्ति यत् नित्यानित्यवस्तुविवेकः इति।

इहामुत्रार्थफलभोगविरागः -
नित्यानित्यवस्तुविवेकेन जायमानं द्वितीयं साधनम् - वैराग्यम् इति तदपि भाष्यकारः असकृत् तत्र तत्र वदति यथा “बाधनालक्षणं दुःखम्” इति सूत्रे पूर्वमुदाहृतं भाष्यम्। अतः वैराग्यम् एतादृशदुःखदर्शनेन नित्यानित्यवस्तुविवेकेन भवति, एवञ्च परम्परया मोक्षो भवति इति दर्शयति। अत्र वैराग्यं कथं सम्पाद्यम् इत्यत्र श्रुतौ कश्चित् प्रकारो वर्तते - यथा पञ्चाग्‍निविद्यामाश्रित्य वा, अन्यत् वा आश्रित्य श्रुतिः वैराग्यं जनयति। श्रुतेः वैराग्यजनकं रीतिः एवमस्ति - किमपि जन्मः दुःखमेव जनयिष्यति, सान्तमेव च भविष्यति, अतः तज्जन्म नापेक्षितम्, अपितु पुनरावृत्तिरभिसंविशं सुखमपेक्षितम्। अतः स्वर्गादपि अधिकसुखव्यतिरिक्ते वैराग्यं कर्तव्यम् इति श्रुतेः तदनुसारीसूत्राणाम्, तदनुसारी भाष्यस्य च अभिप्रायं ज्ञायते।

नैयायिकाः न्यायदर्शने वैराग्यं प्रकारान्तरेणापि साधयन्ति[12]। तत्र दोषाः रागद्वेषमोहाः इति त्रयाः सन्ति, तत्रापि तेषां विस्तरः महान् अस्ति। तेषां निमित्तं तु अहङ्कारः, तस्य दोषनिमित्तस्य ज्ञानेन अहङ्कारनिवृत्तिर्भवति, दोषनिमित्तं तु मिथ्याज्ञानम्, मिथ्याज्ञानस्य ज्ञानेन अपनोदनेन च अहङ्कारनिवृत्तिः भवति इति दोषनिमित्तानां तत्त्वज्ञानाद् अहङ्कारनिवृत्तिः इति प्रथमं सूत्रं सूत्रयामास सूत्रकारः। तदनन्तरञ्‍च दोषानां निमित्तं किमिति विचारमारभ्यते। तत्र प्रथमतः दोषानां निमित्तं तु विषयाः एव इत्याह। कुतः इति चेत् - यैः काम्यन्ते, काम्यमानाश्च ते सर्वे परम्परया दुःखं जनयन्ति। अतः दोषानां रागद्वेषादीनां निमित्तं भूत्वा विषयाः परम्परया दुःखं जनयन्ति इति प्रथमतः सूत्रयामास। तदनन्तरं तन्निमित्तञ्च अवयवी-अभिमानः इति। सर्वोऽपि हि विषयं एकया दृष्ट्या पश्यति। यदा तया दृष्ट्या पश्यति, तदा रागो भवति। यदि तत्र दोषदर्शनं किञ्चित् करोति तर्हि तस्य रागः अपगच्छति, तद् जिहासा एव उत्पद्यत इति अनुभवति। यथा मधुविषसम्पृक्तम् एकमन्नम्, तस्मिन् अन्ने मधुसम्पृक्तमन्नम् इति बुद्ध्या यदि दृष्टिं करोति तर्हि तत्र इच्छा भवति, रागो भवति। यदा हि विषसम्पृक्तमन्नमिदं पश्यति तदा तु अस्य जिहासा उदेति। तर्हि एकस्मिन्नेवान्ने दृष्टिद्वयम्। तत् सञ्ज्ञाद्वयमिति उच्यते। एकया सञ्ज्ञया पश्यतः तत्र रागो भवति, अपरयया सञ्ज्ञया पश्यतस्तु जिहासा भवति।

 एवमेव स्थूलतः शरीरमेकं गृह्णीमश्चेत् तत्र एकया सञ्ज्ञया रागो भवति, अपरयया सञ्ज्ञया जिहासा भवति। अस्य सर्वस्यापि दुःखस्य मूलम् अहङ्कार एव। सः च शरीरादौ आत्मभ्रमः स्वशरीरे भवति, परशरीरेऽपि भवति कदाचित्। स्वशरीरे तु भवत्येवायमभिमानः। कुतः इति चेत् - शरीरमिति दृष्ट्या गृह्यमाणत्वात्। शरीरसंज्ञा अवयवसंज्ञा अत्र वर्तते, अतः अवयवसंज्ञा यत्र भवति, तत्र रागो भवति। जिहासा च अवयवदृष्ट्या पश्यतः भवेत्। तत्र शरीरं नाम ईदृशम् इति लक्षणम् उक्त्वा यदि एकं साधुशरीरम् उपस्थाप्यते, तर्हि अवश्यमेव तत्र रागो भवति। यदि शरीरे अवयवविभागं कफः, मांसं, पित्तं, शोणितं, रुधिरम्, स्नावाः, शिरः, अस्थि, मज्जा इति अवयवानि यदा पश्यामः तर्हि एकोऽपि अवयवः अस्माकं नेष्टः। त एव अवयवाः सन्ति परन्तु तेषु अवयवदृष्टिः यदि क्रियते तदा अवयवी अस्माभिरपेक्षितं भवति। अतः वैराग्याय अवयवदृष्टिः महती कर्तव्या इत्याह भाष्यकारः। तन्निमित्तं तु अयवयी-अभिमानः इति। इदानीं शङ्का भवति - भवन्तः एकम् वस्तु इति वदन्ति तत्र च द्वे दृष्टी इति वदन्ति, तर्हि अवयवाः अवयवी इति पदार्थद्वयमस्ति वा। तदर्थम् अवश्यमस्ति इति अङ्गीकर्तव्यम् इति मन्यते सूत्रकारः। एवं नित्यानित्यवस्तुविवेकः, वैराग्यं चेति द्वितीयमपि साधनमत्र उपदिष्टं भवति।

शमदमाधिसाधनसम्पत्तिः -

इहामुत्रार्थफलभोगविरागेन जायते तृतीयं साधनम् - शमदमादिसाधनसम्पत्तिः। तत्र शमदमादिसाधनसम्पत्तिस्तु श्रुत्यनुसारेण वेदान्तदर्शने प्रतिपादितम्। “शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्[13]” इति श्रुतिवाक्यम्। तत्र शान्तः इत्यनेन शमः, दान्तः इत्यनेन दमः, उपरतः इत्यनेन उपरतिः संन्यासः, तितिक्षुः इत्यनेन तितिक्षा अर्थात् शीतोष्णद्वन्द्वसहनम्, समाहितः इत्यनेन समाधानम्, श्रद्धा इत्यनेन गुरुवेदवाक्येषु विश्वासः इति षट्साधनानि अभिहितानि। तादृशसाधनानि शमदमादि-उपेतानि स्युः, तथापि तेषाम् अवश्यमनुष्ठेयत्वात् इति सूत्रेण स्पष्टमेव सूत्रकारेण उल्लिखितानि। भाष्यकारैः च तत्र विशेषतः विस्तरश्च निरूपितानि।

इयं शमदमादिसाधनसम्पत्तिः न्यायदर्शनेऽपि निरूपितमेवास्ति। यथा “यमनियमाभ्यामात्मसंस्कारः[14]” इत्यस्मिन् सूत्रे यमनियमाभ्याम् आत्मसंस्कारः कर्तव्यः इति सूत्रकारेण निरूपितम्। तत्र यमः इत्यनेन “अहिंसात्यास्तेयब्रह्मचर्यापरिग्रहाः[15]” इति योगशास्त्रे ये प्रसिद्धाः त एव अत्र गृहीतुं शक्यन्ते। तैः आत्मसंस्कारः कर्तव्यः, आत्मनि गुणाधानं दोषापनयनं च कर्तव्यम् इति सूत्रकारः वदति। अर्थात् आत्मनि एतावता विषयोन्मुखता वर्तते, विषयपराङ्मुखं साधनीय चेत् यमादिभिः अभ्यासः कर्तव्यः इति सूत्रकारो वदति। एवं यमनियमादिकम् अत्रापि अस्तीति। यमनियमादिकमेव शमादीनाम् उपलक्षणम्। अत्र श्रुतिमनुद्य, भाष्यमनुद्य च षट् साधनानि इत्युच्यते, किन्तु तादृशानि साधनानि सहस्रशः सन्ति यथा गीतायां भगवता श्रीकष्णेन उक्तम् - अमानीत्वम्, अदम्भीत्वम्, अहिंसा, शान्तिः, आर्जवम्, आचार्योपासनम्, शीलम्, धैर्यम्, आत्मविनिग्रहः इन्द्रियार्थैः वैराग्यम्, अनहङ्कारः इत्येवं रीत्या यानि तानि सर्वाणि अपि अत्र संगृहीतानि भवन्ति। यमादिकमस्ति चेत् तत्र शमादीनाम् उपलक्षणम् इति कृत्वा अत्र शमादिकमपि अवश्यमस्ति इति विज्ञायते।

मुमुक्षुत्वम् -
शमदमादिसाधनसम्पत्तौ सत्यां स्वयमेव मुमुक्षुता भवति इति उभाभ्यामपि दर्शनाभ्यां मन्यते। यथा तत्र साधनतृतीये जाते अवश्यं मुमुक्षुत्वं भवति इति वदति वेदान्तदर्शने, तथैव न्यायदर्शनेऽपि एतादृशसाधनेन निष्पन्ने स्वयमेव मुमुक्ष्त्वं भविष्यति इति प्रदर्शनेन मुमुक्षुता अपि स्थिरा प्रदर्शिता एव भवति। एवमेव श्रवणमननादिकं सर्वमपि विस्तरशः कर्तव्यमिति तत्र तत्र सूत्रकारैः निर्दिष्टमेव। यथा च चतुर्थाध्याये उपान्तिमे आह्निके सूत्रकारो वदति - श्रवणं कर्तव्यम्, कस्मात् इति चेत् गुरुमुखात् श्रवणं कर्तव्यम्, सब्रह्मचारिणः मुखात् कर्तव्यम्, आप्तमुखात् कर्तव्यम् इत्यादिकम्[16]। एवं श्रवणं मननं निदिध्यासनं तत्र अभ्यासः इति शब्देन निरूपितम्, किञ्च बहुधा प्रकारेण श्रवणेन, मननेन निदिध्यासनेन च इदं तत्त्वज्ञानं भवति इत्यपि निरूपयति सूत्रकारः।

अतः वेदान्तदर्शने यानि साधनानि साधनचतुष्टयं वा स्यात्, श्रवणादिकं वा स्यात्, यानि साधनानि प्रदर्शितानि तान्येव साधनानि अत्र शब्दान्तरेण दर्शितानि इति स्पष्टमेव विज्ञायते। दर्शनभेदस्तु पूर्वं उक्तमेव यत्तत्त्वज्ञानविषये मतभेदो वर्तते। यतः वेदान्तदर्शने तत्त्वज्ञानं नाम - आत्मैकत्वविज्ञानम्। आत्मा एकः अद्वितीयः इति विज्ञानं तत्त्वज्ञानम् इति अभिप्रेतम्। न्यायदर्शने तु सन्ति बहवः पदार्थाः। सत्यमेव पदार्थाः बहवो सन्ति, तथापि ते सर्वे पदार्थाः दुःखकराः इति कृत्वा अस्माभिः त्यक्तव्याः आत्मा च उपादातव्यः। अत्र उपादानं नाम आत्मा एक एव सर्वेभ्यः विलक्षणः इति ज्ञातव्यः। यद्यपि आत्मा देहादिविलक्षणः इति ज्ञानं वेदान्तिनां सम्प्रतिपन्नमेव परन्तु मिथ्याभूतेभ्यः देहाहिभ्यः आत्मा सत्यः इति तेषाम् अपेक्षितम्। नैयायिकानां तु सत्येभ्यः पदार्थेभ्यः आत्मा भिन्नः, विलक्षणः तद्विरुद्धधर्मवान् इति ज्ञानम् अपेक्षितम्। एवञ्च न्यायदर्शनस्य वेदान्तदर्शनस्य च अस्मिन् विषये महत् सख्यं वर्तते इति सूचनायै एव भगवत्पादैः “तथा चाचार्यप्रणीतं न्यायोपबृंहितं सूत्रम् - दुःखजन्मप्रवृत्तिमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः”[17] इति स्वकीये भाष्ये भाषितम्। अतः न्यायदर्शनमिदं वेदान्तदर्शनस्य अङ्गं वा स्यात्, समं वा स्यात्, न तु हेयम्, अन्यदर्शनवत् इति।

[1] ब्रह्मसूत्रम्. २-१-३
[2] ब्रह्मसूत्रम्. १-४-२८
[3] एतेन शिष्टापरिग्रहा अपि व्याख्याताः” – ब्रह्मसूत्रम्, १-२-१२
[4] ब्रह्मसूत्रम्. १-१-४
[5]  न्यायसूत्रम्, ४-२-१
[6]  न्यायसूत्रम्, १-१-९
[7]  “न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः” – छान्दोग्य. ८-१२-१
[8]  वेदान्तसारः।
[9]  न्यायसूत्रम्, १-१-२१
[10]  न्यायसूत्रम्, १-१-२
[11]  न्यायसूत्रम्, १-१-२२
[12] “दोषनिमित्तानां तत्त्वज्ञानदहङ्कारनिवृत्तिः” - न्यायसूत्रम्, ४-२-१
[13]  बृहदारण्यकोपनिषत्, ४-४-२३
[14]  न्यायसूत्रम्, ४-२-४६
[15]  योगदर्शनम्,
[16]  “तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोर्थिभिरनुसूयिभिरभ्युपेयात्” – न्यायसूत्रम्, ४-२-४८
[17]  ब्रह्मसूत्रम्. १-१-४

1 comment: